१.७३.३

अथ राजा विदेहानां ददौ कन्याधनं बहु ।
गवां शतसहस्राणि बहूनि मिथिलेश्वरः ॥

पदच्छेदः

अथअथ (अव्ययः)
राजाराजन् (१.१)
विदेहानांविदेह (६.३)
ददौददौ (√दा लिट् प्र.पु. एक.)
कन्याधनंकन्याधन (२.१)
बहुबहु (२.१)
गवांगो (६.३)
शतसहस्राणिशत–सहस्र (२.३)
बहूनिबहु (२.३)
मिथिलेश्वरःमिथिला–ईश्वर (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

रा जावि दे हा नां
दौ न्या नंहु
वां स्राणि
हूनिमिथि लेश्व रः