१.७३.७

प्रविवेश स्वनिलयं मिथिलां मिथिलेश्वरः ।
राजाप्ययोध्याधिपतिः सह पुत्रैर्महात्मभिः ॥

पदच्छेदः

प्रविवेशप्रविवेश (√प्र-विश् लिट् प्र.पु. एक.)
स्वनिलयंस्व–निलय (२.१)
मिथिलांमिथिला (२.१)
मिथिलेश्वरःमिथिला–ईश्वर (१.१)
राजाप्य्राजन् (१.१)–अपि (अव्ययः)
अयोध्याधिपतिःअयोध्या–अधिपति (१.१)
सहसह (अव्ययः)
पुत्रैर्पुत्र (३.३)
महात्मभिःमहात्मन् (३.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

प्रवि वेस्वनि यं
मिथि लांमिथि लेश्व रः
रा जाप्य यो ध्याधि तिः
पु त्रैर्म हात्म भिः