१.७३.८

ऋषीन्सर्वान्पुरस्कृत्य जगाम सबलानुगः ।
गच्छन्तं तु नरव्याघ्रं सर्षिसंघं सराघवम् ॥

पदच्छेदः

ऋषीन्ऋषि (२.३)
सर्वान्सर्व (२.३)
पुरस्कृत्यपुरस्कृत्य (√पुरस्-कृ + ल्यप्)
जगामजगाम (√गम् लिट् प्र.पु. एक.)
सबलानुगः (अव्ययः)–बल–अनुग (१.१)
गच्छन्तंगच्छत् (√गम् + शतृ, २.१)
तुतु (अव्ययः)
नरव्याघ्रंनर–व्याघ्र (२.१)
सर्षिसंघं (अव्ययः)–ऋषि–संघ (२.१)
सराघवम् (अव्ययः)–राघव (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

षी न्स र्वान्पु स्कृत्य
गा लानु गः
च्छ न्तंतु व्या घ्रं
र्षि सं घं रा वम्