१.७४.२४

वधमप्रतिरूपं तु पितुः श्रुत्वा सुदारुणम् ।
क्षत्रमुत्सादयं रोषाज्जातं जातमनेकशः ॥

पदच्छेदः

वधम्वध (२.१)
अप्रतिरूपंअप्रतिरूप (२.१)
तुतु (अव्ययः)
पितुःपितृ (६.१)
श्रुत्वाश्रुत्वा (√श्रु + क्त्वा)
सुदारुणम्सु (अव्ययः)–दारुण (२.१)
क्षत्रम्क्षत्र (२.१)
उत्सादयन्उत्सादयत् (√उत्-सादय् + शतृ, १.१)
रोषाज्रोष (५.१)
जातंजात (√जन् + क्त, १.१)
जातम्जात (√जन् + क्त, १.१)
अनेकशःअनेकशस् (अव्ययः)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

प्रति रू पंतु
पि तुः श्रु त्वासु दारु णम्
क्षत्र मु त्सा यं रो षा
ज्जा तं जा ने शः