१.७६.७

राजप्रवेशसुमुखैः पौरैर्मङ्गलवादिभिः ।
संपूर्णां प्राविशद्राजा जनौघैः समलंकृताम् ॥

पदच्छेदः

राजप्रवेशसुमुखैःराजन्–प्रवेश–सुमुख (३.३)
पौरैर्पौर (३.३)
मङ्गलवादिभिःमङ्गल–वादिन् (३.३)
सम्पूर्णांसम्पूर्ण (√सम्-पृ + क्त, २.१)
प्राविशद्प्राविशत् (√प्र-विश् लङ् प्र.पु. एक.)
राजाराजन् (१.१)
जनौघैःजन–ओघ (३.३)
समलंकृताम्समलंकृत (√समलं-कृ + क्त, २.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

राप्र वेसुमु खैः
पौ रै र्मङ्ग वादि भिः
सं पू र्णां प्रावि द्रा जा
नौ घैः लंकृ ताम्