२.१.११

गते च भरते रामो लक्ष्मणश्च महाबलः ।
पितरं देवसंकाशं पूजयामासतुस्तदा ॥

पदच्छेदः

गतेगत (√गम् + क्त, ७.१)
(अव्ययः)
भरतेभरत (७.१)
रामोराम (१.१)
लक्ष्मणश्लक्ष्मण (१.१)
(अव्ययः)
महाबलःमहत्–बल (१.१)
पितरंपितृ (२.१)
देवसंकाशंदेव–संकाश (२.१)
पूजयामासतुस्पूजयामासतुः (√पूजय् प्र.पु. द्वि.)
तदातदा (अव्ययः)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

ते ते रा मो
क्ष्मश्च हा लः
पि रं दे सं का शं
पू या मा तुस्त दा