२.१.२४

अभियाता प्रहर्ता च सेनानयविशारदः ।
अप्रधृष्यश्च संग्रामे क्रुद्धैरपि सुरासुरैः ॥

पदच्छेदः

अभियाताअभियातृ (१.१)
प्रहर्ताप्रहर्तृ (१.१)
(अव्ययः)
सेनानयविशारदःसेना–नय–विशारद (१.१)
अप्रधृष्यश्अप्रधृष्य (१.१)
(अव्ययः)
संग्रामेसंग्राम (७.१)
क्रुद्धैर्क्रुद्ध (√क्रुध् + क्त, ३.३)
अपिअपि (अव्ययः)
सुरासुरैःसुर–असुर (३.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

भि या ताप्र र्ता
से नावि शा दः
प्र धृ ष्यश्च सं ग्रा मे
क्रु द्धैपिसु रासु रैः