२.१.२३

आरोहे विनये चैव युक्तो वारणवाजिनाम् ।
धनुर्वेदविदां श्रेष्ठो लोकेऽतिरथसंमतः ॥

पदच्छेदः

आरोहेआरोह (७.१)
विनयेविनय (७.१)
चैव (अव्ययः)–एव (अव्ययः)
युक्तोयुक्त (√युज् + क्त, १.१)
वारणवाजिनाम्वारण–वाजिन् (६.३)
धनुर्वेदविदांधनुर्वेद–विद् (६.३)
श्रेष्ठोश्रेष्ठ (१.१)
लोकेलोक (७.१)
ऽतिरथसंमतःअतिरथ–संमत (√सम्-मन् + क्त, १.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

रो हेवि ये चै
यु क्तो वा वाजि नाम्
नु र्वेवि दां श्रे ष्ठो
लो केऽति सं तः