२.१.३०

एषा ह्यस्य परा प्रीतिर्हृदि संपरिवर्तते ।
कदा नाम सुतं द्रक्ष्याम्यभिषिक्तमहं प्रियम् ॥

अन्वयः

अहम् I, अभिषिक्तम् coronate, प्रियं सुतम् dear son, कदा नाम oh when, द्रक्ष्यामि can I see, एषा this, परा great, प्रीतिः pleasure, अस्य his, हृदि in heart, संपरिवर्तते हि repeatedly surfaced.

Summary

The thought of seeing his dear son coronated repeatedly surfaced his mind so great was his affection (for Rama).

पदच्छेदः

एषाएतद् (१.१)
ह्य्हि (अव्ययः)
अस्यइदम् (६.१)
परापर (१.१)
प्रीतिर्प्रीति (१.१)
हृदिहृद् (७.१)
सम्परिवर्ततेसम्परिवर्तते (√सम्परि-वृत् लट् प्र.पु. एक.)
कदाकदा (अव्ययः)
नामनाम (अव्ययः)
सुतंसुत (२.१)
द्रक्ष्याम्य्द्रक्ष्यामि (√दृश् लृट् उ.पु. )
अभिषिक्तम्अभिषिक्त (√अभि-सिच् + क्त, २.१)
अहंमद् (१.१)
प्रियम्प्रिय (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

षा ह्यस्य रा प्रीति
र्हृदि संरिर्त ते
दा नासु तं द्र क्ष्या
म्यभि षिक्त हंप्रि यम्