२.१.२९

एतैस्तु बहुभिर्युक्तं गुणैरनुपमैः सुतम् ।
दृष्ट्वा दशरथो राजा चक्रे चिन्तां परंतपः ॥

अन्वयः

परन्तपः subduer of enemies, दशरथः राजा king Dasaratha, अनुपमैः with incomparable, बहुभिः innumerable, एतैः these, गुणैः qualities, युक्तम् endowed with, सुतम् his son, दृष्ट्वा having seen, चिन्ताम् चक्रे contemplated.

Summary

Observing his son endowed with such innumerable and incomparable virtues, king Dasaratha, subduer of enemies started thinking.

पदच्छेदः

एतैस्एतद् (३.३)
तुतु (अव्ययः)
बहुभिर्बहु (३.३)
युक्तंयुक्त (√युज् + क्त, २.१)
गुणैर्गुण (३.३)
अनुपमैःअनुपम (३.३)
सुतम्सुत (२.१)
दृष्ट्वादृष्ट्वा (√दृश् + क्त्वा)
दशरथोदशरथ (१.१)
राजाराजन् (१.१)
चक्रेचक्रे (√कृ लिट् प्र.पु. एक.)
चिन्तांचिन्ता (२.१)
परंतपःपरंतप (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

तैस्तुहु भि र्यु क्तं
गु णैनु मैःसु तम्
दृ ष्ट्वा थो रा जा
क्रे चि न्तां रं पः