२.१.३५

नानानगरवास्तव्यान्पृथग्जानपदानपि ।
समानिनाय मेदिन्याः प्रधानान्पृथिवीपतिः ॥

अन्वयः

नानानगरवास्तव्यान् residents of various cities, जानपदानपि villagers also, मेदिन्याः of this earth, प्रधानान् important persons exercising authority, पृथिवीपतीन् kings, पृथक् separately, समानिनाय summoned.

पदच्छेदः

नानानगरवास्तव्यान्नाना (अव्ययः)–नगर–वास्तव्य (२.३)
पृथग्जानपदान्पृथक् (अव्ययः)–जानपद (२.३)
अपिअपि (अव्ययः)
समानिनायसमानिनाय (√समा-नी लिट् प्र.पु. एक.)
मेदिन्याःमेदिनी (६.१)
प्रधानान्प्रधान (२.३)
पृथिवीपतिःपृथिवीपति (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

ना ना वा स्त व्या
न्पृ ग्जा दापि
मानि ना मे दि न्याः
प्र धा नान्पृथि वी तिः