२.१०.३०

ततः श्रुत्वा महाराजः कैकेय्या दारुणं वचः ।
व्यथितो विक्लवश्चैव व्याघ्रीं दृष्ट्वा यथा मृगः ॥

पदच्छेदः

ततःततस् (अव्ययः)
श्रुत्वाश्रुत्वा (√श्रु + क्त्वा)
कैकेय्याकैकेयी (६.१)
दारुणंदारुण (२.१)
वचःवचस् (२.१)
व्यथितोव्यथित (√व्यथ् + क्त, १.१)
चैव (अव्ययः)–एव (अव्ययः)
व्याघ्रींव्याघ्री (२.१)
दृष्ट्वादृष्ट्वा (√दृश् + क्त्वा)
यथायथा (अव्ययः)
मृगःमृग (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

तः श्रु त्वा हा रा जः
कै के य्या दारु णं चः
व्यथि तो विक्ल श्चै
व्या घ्रीं दृ ष्ट्वा थामृ गः