२.१०.३२

चिरेण तु नृपः संज्ञां प्रतिलभ्य सुदुःखितः ।
कैकेयीमब्रवीत्क्रुद्धः प्रदहन्निव चक्षुषा ॥

अन्वयः

नृपः the king, चिरेण after a long time, संज्ञाम् consciousness, प्रतिलभ्य having regained, सुदुःखितः distressed, क्रुद्धः angry, चक्षुषा with eyes, कैकेयीम् Kaikeyi, प्रदहन्निव as if burning, अब्रवीत् spoke.

Summary

Regaining his consciousness after a long time, the king in deep grief and with eyes as though burning in anger looked at Kaikeyi and said:

पदच्छेदः

चिरेणचिरेण (अव्ययः)
तुतु (अव्ययः)
नृपःनृप (१.१)
संज्ञांसंज्ञा (२.१)
प्रतिलभ्यप्रतिलभ्य (√प्रति-लभ् + ल्यप्)
सुदुःखितःसु (अव्ययः)–दुःखित (१.१)
कैकेयीम्कैकेयी (२.१)
अब्रवीत्अब्रवीत् (√ब्रू लङ् प्र.पु. एक.)
क्रुद्धःक्रुद्ध (√क्रुध् + क्त, १.१)
प्रदहन्न्प्रदहत् (√प्र-दह् + शतृ, १.१)
इवइव (अव्ययः)
चक्षुषाचक्षुस् (३.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

चि रेतुनृ पः सं ज्ञां
प्रतिभ्यसु दुःखि तः
कै के यीब्र वी त्क्रु द्धः
प्रन्निक्षु षा