२.१०.३३

नृशंसे दुष्टचारित्रे कुलस्यास्य विनाशिनि ।
किं कृतं तव रामेण पापे पापं मयापि वा ॥

अन्वयः

नृशंसे O cruel woman, दुष्टचारित्रे of wicked character, अस्य कुलस्य of this family, विनाशिनि destroyer, पापे sinful woman, रामेण by Rama, मयापि वा or by me, तव your, किं पापं कृतम् what harm has been done?

Summary

O woman of cruel and sinful nature, you are bent on destroying this family. What harm has been done to you by Rama or by me?

पदच्छेदः

नृशंसेनृशंस (८.१)
दुष्टचारित्रेदुष्ट (√दुष् + क्त)–चारित्र (८.१)
कुलस्यास्यकुल (६.१)–इदम् (६.१)
विनाशिनिविनाशिन् (८.१)
किं (१.१)
कृतंकृत (√कृ + क्त, १.१)
तवत्वद् (६.१)
रामेणराम (३.१)
पापेपाप (८.१)
पापंपाप (१.१)
मयापिमद् (३.१)–अपि (अव्ययः)
वावा (अव्ययः)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

नृ शं से दुष्ट चा रि त्रे
कु स्यास्यवि नाशिनि
किंकृ तं रा मे
पा पे पा पं यापि वा