२.१०१.१२

उद्विजन्ते यथा सर्पान्नरादनृतवादिनः ।
धर्मः सत्यं परो लोके मूलं स्वर्गस्य चोच्यते ॥

अन्वयः

अनृतवादिनः from one speaking untruth, नरात् from man, सर्पात् यथा like from a serpent, उद्विजन्ते are agitated, लोके in this world, सत्यम् truth, परः greatest, धर्मः virtue, स्वर्गस्य to heaven, मूलं च is the very root, उच्यते is said to be.

Summary

People are frightened at the sight of a man speaking untruth as though they have seen a serpent. Truth in this world is the greatest virtue and is said to be the very foundation of heaven.

पदच्छेदः

उद्विजन्तेउद्विजन्ते (√उत्-विज् लट् प्र.पु. बहु.)
यथायथा (अव्ययः)
सर्पान्सर्प (५.१)
नराद्नर (५.१)
अनृतवादिनःअनृत–वादिन् (५.१)
धर्मःधर्म (१.१)
सत्यंसत्य (१.१)
परोपर (१.१)
लोकेलोक (७.१)
मूलंमूल (१.१)
स्वर्गस्यस्वर्ग (६.१)
चोच्यते (अव्ययः)–उच्यते (√वच् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

द्वि न्ते था र्पा
न्न रानृ वादि नः
र्मः त्यं रो लो के
मू लं स्व र्गस्य चोच्य ते