२.१०१.११

ऋषयश्चैव देवाश्च सत्यमेव हि मेनिरे ।
सत्यवादी हि लोकेऽस्मिन्परमं गच्छति क्षयम् ॥

अन्वयः

ऋषयश्चैव sages, देवाश्च the gods or, सत्यमेव the truth only, मेनिरे considered (supreme virtue), सत्यवादी truthful, अस्मिन् लोके in this world, परमम् highest, क्षयम् state, गच्छति attains, हि indeed.

Summary

Sages and gods all accept truth (as the supreme virtue). A truthful man of this world, attains the highest state (abode).

पदच्छेदः

ऋषयश्ऋषि (१.३)
चैव (अव्ययः)–एव (अव्ययः)
देवाश्देव (१.३)
(अव्ययः)
सत्यम्सत्य (२.१)
एवएव (अव्ययः)
हिहि (अव्ययः)
मेनिरेमेनिरे (√मन् लिट् प्र.पु. बहु.)
सत्यवादीसत्य–वादिन् (१.१)
हिहि (अव्ययः)
लोकेलोक (७.१)
ऽस्मिन्इदम् (७.१)
परमंपरम (२.१)
गच्छतिगच्छति (√गम् लट् प्र.पु. एक.)
क्षयम्क्षय (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

श्चै दे वाश्च
त्य मेहि मेनि रे
त्य वा दीहि लो केऽस्मि
न्प मंच्छ तिक्ष यम्