२.१०२.२४

कल्माषपादपुत्रोऽभूच्छङ्खणस्त्विति विश्रुतः ।
यस्तु तद्वीर्यमासाद्य सहसेनो व्यनीनशत् ॥

अन्वयः

शङ्खणः Shankhana, इति thus, विश्रुतः is famous, कल्माषपादपुत्रः as son of Kalmashapada, अभूत् became, यः whoever, तद्वीर्यम् with that prowess, आसाद्य having been target acquired, सहसैन्यः with his army, व्यनीनशत् was destroyed.

Summary

Shankhana was the famous son of Kalmashapada. Whoever challenged his prowess was routed with his entire army.

पदच्छेदः

कल्माषपादपुत्रोकल्माषपाद–पुत्र (१.१)
ऽभूच्अभूत् (√भू प्र.पु. एक.)
छङ्खणस्शङ्खण (१.१)
त्व्तु (अव्ययः)
इतिइति (अव्ययः)
विश्रुतःविश्रुत (√वि-श्रु + क्त, १.१)
यस्यद् (१.१)
तुतु (अव्ययः)
तद्तद् (२.१)
वीर्यम्वीर्य (२.१)
आसाद्यआसाद्य (√आ-सादय् + ल्यप्)
सहसेनोसह (अव्ययः)–सेना (१.१)
व्यनीनशत्व्यनीनशत् (√वि-नश् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

ल्मा पा पु त्रो ऽभू
च्छङ्खस्त्विति विश्रु तः
स्तु द्वीर्य मा साद्य
से नोव्य नी शत्