२.१०३.११

स हि राजा जनयिता पिता दशरथो मम ।
आज्ञातं यन्मया तस्य न तन्मिथ्या भविष्यति ॥

अन्वयः

मम my, पिता father, सः that, राजा दशरथः king Dasaratha, जनयिता हि he begot me, मया by me, तस्य to him, यत् whatever, आज्ञातं was promised, तत् that one, मिथ्या false, न भविष्यति shall not become.

Summary

King Dasaratha is my father who begot me. The promise I made him shall not prove false.

पदच्छेदः

तद् (१.१)
हिहि (अव्ययः)
राजाराजन् (१.१)
जनयिताजनयितृ (१.१)
पितापितृ (१.१)
दशरथोदशरथ (१.१)
मममद् (६.१)
आज्ञातंआज्ञात (√आ-ज्ञा + क्त, १.१)
यन्यद् (१.१)
मयामद् (३.१)
तस्यतद् (६.१)
(अव्ययः)
तन्तद् (१.१)
मिथ्यामिथ्या (अव्ययः)
भविष्यतिभविष्यति (√भू लृट् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

हि रा जायि ता
पि ता थो
ज्ञा तंन्म यास्य
न्मि थ्या विष्यति