२.१०३.१२

एवमुक्तस्तु रामेण भरतः प्रत्यनन्तरम् ।
उवाच परमोदारः सूतं परमदुर्मनाः ॥

अन्वयः

परमोदारः a man of great generosity, भरतः Bharata, रामेण by Rama, एवम् in this way, उक्तः having been addressed, परमदुर्मनाः with extremely distressed mind, प्रत्यनन्तरं who was nearby, सूतम् to the charioteer, उवाच said.

Summary

Having been addressed by Rama in this way, Bharata of great generosity, in extreme distress, addressing the charioteer who was standing nearby said:

पदच्छेदः

एवम्एवम् (अव्ययः)
उक्तस्उक्त (√वच् + क्त, १.१)
तुतु (अव्ययः)
रामेणराम (३.१)
भरतःभरत (१.१)
प्रत्यनन्तरम्प्रत्यनन्तर (२.१)
उवाचउवाच (√वच् लिट् प्र.पु. एक.)
परमोदारःपरम–उदार (१.१)
सूतंसूत (२.१)
परमदुर्मनाःपरम–दुर्मनस् (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

मु क्तस्तु रा मे
तः प्रत्यन्त रम्
वा मो दा रः
सू तं दुर्म नाः