२.१०३.१८

उत्तिष्ठ नरशार्दूल हित्वैतद्दारुणं व्रतम् ।
पुरवर्यामितः क्षिप्रमयोध्यां याहि राघव ॥

अन्वयः

नरशार्दूल O best of men, राघव Bharata, एतत् all this, दारुणम् formidable, व्रतम् resolve, हित्वा give up, उत्तिष्ठ arise, इतः from here, क्षिप्रम् quickly, पुरवर्याम् to the best of cities, अयोध्याम् Ayodhya, याहि you may return.

Summary

O Bharata, O tiger among men, O scion of the Raghu race give up this formidable vow. Arise and quickly return to Ayodhya, the best of cities.

पदच्छेदः

उत्तिष्ठउत्तिष्ठ (√उत्-स्था लोट् म.पु. )
नरशार्दूलनर–शार्दूल (८.१)
हित्वैतद्हित्वा (√हा + क्त्वा)–एतद् (२.१)
दारुणंदारुण (२.१)
व्रतम्व्रत (२.१)
पुरवर्याम्पुर–वर्य (२.१)
इतःइतस् (अव्ययः)
क्षिप्रम्क्षिप्रम् (अव्ययः)
अयोध्यांअयोध्या (२.१)
याहियाहि (√या लोट् म.पु. )
राघवराघव (८.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

त्तिष्ठ शा र्दू
हि त्वै द्दारु णंव्र तम्
पु र्यामि तः क्षिप्र
यो ध्यां याहि रा