२.१०३.१९

आसीनस्त्वेव भरतः पौरजानपदं जनम् ।
उवाच सर्वतः प्रेक्ष्य किमार्यं नानुशासथ ॥

अन्वयः

भरतः Bharata, आसीनस्त्वेव while remaining seated, पौरजानपदम् men inhabiting towns and villages, जनम् men, सर्वतः on all sides, प्रेक्ष्य looking, आर्यम् esteemed brother, किम् why, नानुशासथ don't you all persuade, उवाच said.

Summary

While remaining seated, Bharata looking all around at the inhabitants from towns and villages, questioned them 'why don't you all persuade my esteemed brother to return'.

पदच्छेदः

आसीनस्आसीन (√आस् + क्त, १.१)
त्व्तु (अव्ययः)
एवएव (अव्ययः)
भरतःभरत (१.१)
पौरजानपदंपौर–जानपद (२.१)
जनम्जन (२.१)
उवाचउवाच (√वच् लिट् प्र.पु. एक.)
सर्वतःसर्वतस् (अव्ययः)
प्रेक्ष्यप्रेक्ष्य (√प्र-ईक्ष् + ल्यप्)
किम् (२.१)
आर्यंआर्य (२.१)
नानुशासथ (अव्ययः)–अनुशासथ (√अनु-शास् लट् म.पु. द्वि.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

सी स्त्वे तः
पौ जा दं नम्
वार्व तः प्रेक्ष्य
कि मा र्यं नानु शा