२.१०६.१

स्निग्धगम्भीरघोषेण स्यन्दनेनोपयान्प्रभुः ।
अयोध्यां भरतः क्षिप्रं प्रविवेश महायशाः ॥

अन्वयः

महायशः renowned, प्रभुः lord, भरतः Bharata, स्निग्धगम्भीरघोषेण with its deep, soothing sound, स्यन्दनेन by the chariot, उपयान् while travelling, क्षिप्रम् soon, अयोध्याम् Ayodhya, प्रविवेश entered.

Summary

Bharata, the renowned lord (of Ayodhya) travelled on the chariot that produced a deep, soothing, sound. And entered Ayodhya soon.

पदच्छेदः

स्निग्धगम्भीरघोषेणस्निग्ध–गम्भीर–घोष (३.१)
प्रभुःप्रभु (१.१)
अयोध्यांअयोध्या (२.१)
भरतःभरत (१.१)
क्षिप्रंक्षिप्रम् (अव्ययः)
प्रविवेशप्रविवेश (√प्र-विश् लिट् प्र.पु. एक.)
महायशाःमहत्–यशस् (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

स्निग्ध म्भी घो षे
स्यन्द ने नो यान्प्र भुः
यो ध्यां तः क्षि प्रं
प्रवि वे हा शाः