२.१०७.१७

राघवाय च संन्यासं दत्त्वेमे वरपादुके ।
राज्यं चेदमयोध्यां च धूतपापो भवामि च ॥

अन्वयः

सन्यासम् this trust, इमे वरपादुके these sacred sandals, इदं राज्यं च and this kingdom, अयोध्यां च and Ayodhya, राघवाय to Rama, दत्त्वा having given back, धूतपापः cleansed of the sin, भवामि च I shall become.

Summary

Restoring the sacred sandals, the kingdom and this city of Ayodhya held as a trust by me, I shall be cleansed of the sin.

पदच्छेदः

राघवायराघव (४.१)
(अव्ययः)
संन्यासंसंन्यास (२.१)
दत्त्वेमेदत्त्वा (√दा + क्त्वा)–इदम् (२.२)
वरपादुकेवर–पादुका (२.२)
राज्यंराज्य (२.१)
चेदम् (अव्ययः)–इदम् (२.१)
अयोध्यांअयोध्या (२.१)
(अव्ययः)
धूतपापोधूत (√धू + क्त)–पाप (१.१)
भवामिभवामि (√भू लट् उ.पु. )
(अव्ययः)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

रा वा सं न्या सं
त्त्वे मे पादु के
रा ज्यं चे यो ध्यां
धू पा पो वामि