२.१०९.१०

यया मूलफले सृष्टे जाह्नवी च प्रवर्तिता ।
उग्रेण तपसा युक्ता नियमैश्चाप्यलंकृता ॥

पदच्छेदः

ययायद् (३.१)
मूलफलेमूल–फल (१.२)
सृष्टेसृष्ट (√सृज् + क्त, १.२)
जाह्नवीजाह्नवी (१.१)
(अव्ययः)
प्रवर्तिताप्रवर्तित (√प्र-वर्तय् + क्त, १.१)
उग्रेणउग्र (३.१)
तपसातपस् (३.१)
युक्तायुक्त (√युज् + क्त, १.१)
नियमैश्नियम (३.३)
चाप्य् (अव्ययः)–अपि (अव्ययः)
अलंकृताअलंकृत (√अलम्-कृ + क्त, १.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

या मू ले सृ ष्टे
जाह्न वीप्रर्ति ता
ग्रे सा यु क्ता
नि मै श्चाप्य लंकृ ता