२.१०९.११

दशवर्षसहस्राणि यया तप्तं महत्तपः ।
अनसूयाव्रतैस्तात प्रत्यूहाश्च निबर्हिताः ॥

पदच्छेदः

दशवर्षसहस्राणिदशन्–वर्ष–सहस्र (२.३)
ययायद् (३.१)
तप्तंतप्त (√तप् + क्त, १.१)
महत्महत् (१.१)
तपःतपस् (१.१)
अनसूयाव्रतैस्अनसूया–व्रत (३.३)
ताततात (८.१)
प्रत्यूहाश्प्रत्यूह (१.३)
(अव्ययः)
निबर्हिताःनिबर्हित (√नि-बर्हय् + क्त, १.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

र्ष स्राणि
या प्तंत्त पः
सू याव्र तै स्ता
प्र त्यू हाश्चनिर्हि ताः