२.११०.४७

तेन पूरयता वेगान्मध्ये भग्नं द्विधा धनुः ।
तस्य शब्दोऽभवद्भीमः पतितस्याशनेरिव ॥

अन्वयः

पूरयता while stringing, तेन by Rama, वेगात् with force, धनुः bow, मध्ये in the middle, द्विधा into two, भग्नम् was broken, तस्य its, भीमः dreadful, शब्दः sound, पतितस्य fallen, अशनेरिव like that of a thunder, अभवत् arose.

M N Dutt

And as he drew it vehemently, it broke in the middle in twain. And the sound of it was dreadful like to the bursting of a thunder-bolt.

Summary

When Rama was stringing the bow with force, it was broken into two in the middle and fell down with a dreadful sound like that of thunder.

पदच्छेदः

तेनतद् (३.१)
पूरयतापूरयत् (√पूरय् + शतृ, ३.१)
वेगान्वेग (५.१)
मध्येमध्य (७.१)
भग्नंभग्न (√भञ्ज् + क्त, १.१)
द्विधाद्विधा (अव्ययः)
धनुःधनुस् (१.१)
तस्यतद् (६.१)
शब्दोशब्द (१.१)
ऽभवद्अभवत् (√भू लङ् प्र.पु. एक.)
भीमःभीम (१.१)
पतितस्याशनेर्पतित (√पत् + क्त, ६.१)–अशनि (६.१)
इवइव (अव्ययः)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

ते पू ता वे गा
न्म ध्ये ग्नंद्वि धा नुः
स्य ब्दोऽभ द्भी मः
ति स्या नेरि