२.१११.३

रमेऽहं कथया ते तु दृढं मधुरभाषिणि ।
रविरस्तं गतः श्रीमानुपोह्य रजनीं शिवाम् ॥

पदच्छेदः

रमेरमे (√रम् लट् उ.पु. )
ऽहंमद् (१.१)
कथयाकथा (३.१)
तेत्वद् (६.१)
तुतु (अव्ययः)
दृढंदृढम् (अव्ययः)
मधुरभाषिणिमधुर–भाषिन् (८.१)
रविर्रवि (१.१)
अस्तंअस्त (२.१)
गतःगत (√गम् + क्त, १.१)
श्रीमान्श्रीमत् (१.१)
उपोह्यउपोह्य (√उप-वह् + ल्यप्)
रजनींरजनी (२.१)
शिवाम्शिव (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

मे ऽहं या तेतु
दृ ढंधु भाषिणि
वि स्तं तः श्री मा
नु पोह्य नींशि वाम्