२.१३.२६

शारदाभ्रघनप्रख्यं दीप्तं मेरुगुहोपमम् ।
दामभिर्वरमाल्यानां सुमहद्भिरलंकृतम् ॥

पदच्छेदः

शारदाभ्रघनप्रख्यंशारद–अभ्र–घन–प्रख्या (२.१)
दीप्तंदीप्त (√दीप् + क्त, २.१)
मेरुगुहोपमम्मेरु–गुहा–उपम (२.१)
दामभिर्दामन् (३.३)
वरमाल्यानांवर–माल्य (६.३)
सुमहद्भिर्सु (अव्ययः)–महत् (३.३)
अलंकृतम्अलंकृत (√अलम्-कृ + क्त, २.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

शा दाभ्र प्र ख्यं
दी प्तं मेरुगु हो मम्
दा भिर्व मा ल्या नां
सुद्भि लंकृ तम्