२.१६.४

तदपूर्वं नरपतेर्दृष्ट्वा रूपं भयावहम् ।
रामोऽपि भयमापन्नः पदा स्पृष्ट्वेव पन्नगम् ॥

अन्वयः

अपूर्वम् unprecedented, भयावहम् frightful, नरपतेः king's, तत् रूपम् that appearance, दृष्ट्वा having seen, रामोऽपि Rama also, पन्नगम् serpent, पदा with foot, स्पृष्ट्वेव touched, भयम् आपन्नः experienced fear.

M N Dutt

Seeing this unforeseen and terrible appearance of the king, like to a serpent trampled under foot, Rāma was exceedingly terrified.

Summary

Never before did Rama see such frightful appearance of his father. He was seized with fear as if he trampled a serpent.

पदच्छेदः

तद्तद् (२.१)
अपूर्वंअपूर्व (२.१)
नरपतेर्नरपति (६.१)
दृष्ट्वादृष्ट्वा (√दृश् + क्त्वा)
रूपंरूप (२.१)
भयावहम्भय–आवह (२.१)
रामोराम (१.१)
ऽपिअपि (अव्ययः)
भयम्भय (२.१)
आपन्नःआपन्न (√आ-पद् + क्त, १.१)
पदापद् (३.१)
स्पृष्ट्वेवस्पृष्ट्वा (√स्पृश् + क्त्वा)–इव (अव्ययः)
पन्नगम्पन्नग (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

पू र्वं ते
र्दृ ष्ट्वा रू पं या हम्
रा मोऽपि मा न्नः
दा स्पृ ष्ट्वेन्न गम्