२.२.१३

इति ब्रुवन्तं मुदिताः प्रत्यनन्दन्नृपा नृपम् ।
वृष्टिमन्तं महामेघं नर्दन्तमिव बर्हिणः ॥

अन्वयः

इति thus, ब्रुवन्तम् speaking, नृपम् king Dasaratha, नृपा: kings, मुदिता: delighted, वृष्टिमन्तम् raining, महामेघम् thick cloud, नर्दन्त: making sounds, बर्हिण: इव like peacocks, प्रत्यनन्दन् acclaimed.

Summary

Having thus heard king Dasaratha speak, the kings acclaimed him with delight, like peacocks crying (in joy) to see thick clouds.

पदच्छेदः

इतिइति (अव्ययः)
ब्रुवन्तंब्रुवत् (√ब्रू + शतृ, २.१)
मुदिताःमुदित (√मुद् + क्त, १.३)
प्रत्यनन्दन्प्रत्यनन्दत् (√प्रति-नन्द् लङ् प्र.पु. एक.)
नृपानृप (१.३)
नृपम्नृप (२.१)
वृष्टिमन्तंवृष्टिमत् (२.१)
महामेघंमहत्–मेघ (२.१)
नर्दन्तम्नर्दत् (√नर्द् + शतृ, २.१)
इवइव (अव्ययः)
बर्हिणःबर्हिन् (१.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

तिब्रु न्तंमुदि ताः
प्रत्य न्दन्नृ पानृ पम्
वृष्टि न्तं हा मे घं
र्दन्तमिर्हि णः