२.२.३२

सर्वान्देवान्नमस्यन्ति रामस्यार्थे यशस्विनः ।
तेषामायाचितं देव त्वत्प्रसादात्समृध्यताम् ॥

पदच्छेदः

सर्वान्सर्व (२.३)
देवान्देव (२.३)
नमस्यन्तिनमस्यन्ति (√नमस्य् लट् प्र.पु. बहु.)
रामस्यार्थेराम (६.१)–अर्थ (७.१)
यशस्विनःयशस्विन् (६.१)
तेषाम्तद् (६.३)
आयाचितंआयाचित (१.१)
देवदेव (८.१)
त्वत्प्रसादात्त्वद्–प्रसाद (५.१)
समृध्यताम्समृध्यताम् (√सम्-ऋध् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

र्वा न्दे वान्न स्यन्ति
रा स्या र्थेस्वि नः
ते षा मा याचि तं दे
त्वत्प्र सा दात्स मृध्य ताम्