२.२०.५

अग्राक्ष्णा वीक्षमाणस्तु तिर्यग्भ्रातरमब्रवीत् ।
अस्थाने संभ्रमो यस्य जातो वै सुमहानयम् ॥

पदच्छेदः

अग्राक्ष्णाअग्र–अक्षि (३.१)
वीक्षमाणस्वीक्षमाण (√वि-ईक्ष् + शानच्, १.१)
तुतु (अव्ययः)
तिर्यग्तिर्यञ्च् (२.१)
भ्रातरम्भ्रातृ (२.१)
अब्रवीत्अब्रवीत् (√ब्रू लङ् प्र.पु. एक.)
अस्थानेअस्थान (७.१)
सम्भ्रमोसम्भ्रम (१.१)
यस्ययद् (६.१)
जातोजात (√जन् + क्त, १.१)
वैवै (अव्ययः)
सुमहान्सु (अव्ययः)–महत् (१.१)
अयम्इदम् (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

ग्रा क्ष्णा वीक्ष मास्तु
ति र्य ग्भ्राब्र वीत्
स्था ने संभ्र मोस्य
जा तो वैसु हा यम्