२.२८.११

रामस्त्वनेन वाक्येन सुप्रीतः प्रत्युवाच तम् ।
व्रजापृच्छस्व सौमित्रे सर्वमेव सुहृज्जनम् ॥

अन्वयः

रामस्तु Rama also, अनेन वाक्येन with these words, सुप्रीतः immensely pleased man, तम् to him, प्रत्युवाच replied, सौमित्रे O Lakshmana, व्रज go forth, सर्वमेव all, सुहृज्जनम् friends, आपृच्छस्व ask leave of them.

Summary

Pleased with his words Rama said, O Lakshmana go and take leave of all your friends.

पदच्छेदः

रामस्राम (१.१)
त्व्तु (अव्ययः)
अनेनइदम् (३.१)
वाक्येनवाक्य (३.१)
सुप्रीतःसु (अव्ययः)–प्रीत (√प्री + क्त, १.१)
प्रत्युवाचप्रत्युवाच (√प्रति-वच् लिट् प्र.पु. एक.)
तम्तद् (२.१)
व्रजापृच्छस्वव्रज (√व्रज् लोट् म.पु. )–आपृच्छस्व (√आ-प्रच्छ् लोट् म.पु. )
सौमित्रेसौमित्रि (८.१)
सर्वम्सर्व (२.१)
एवएव (अव्ययः)
सुहृज्जनम्सुहृद्–जन (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

रास्त्व ने वा क्ये
सु प्री तः प्रत्यु वा तम्
व्र जा पृ च्छस्व सौ मि त्रे
र्व मेसु हृज्ज नम्