२.२९.१२

अगस्त्यं कौशिकं चैव तावुभौ ब्राह्मणोत्तमौ ।
अर्चयाहूय सौमित्रे रत्नैः सस्यमिवाम्बुभिः ॥

अन्वयः

सौमित्रे Lakshmana, अगस्त्यम् sage Agasthya, कौशिकं चैव to sage Kausika, उभौ both, तौ ब्राह्मणोत्तमौ two eminent brahmins, आहूय having invited, रत्नैः gems, सस्यं crops, अम्बुभिः इव like rain waters, अर्चय worship.

Summary

O Lakshmana invite Agastya and Kausika, the two celebrated brahmins, and bestow on them with reverence plenty of precious gems like showers of rain on standing crops.

पदच्छेदः

अगस्त्यंअगस्त्य (२.१)
कौशिकंकौशिक (२.१)
चैव (अव्ययः)–एव (अव्ययः)
ताव्तद् (२.२)
उभौउभ् (२.२)
ब्राह्मणोत्तमौब्राह्मण–उत्तम (२.२)
अर्चयाहूयअर्चय (√अर्चय् लोट् म.पु. )–आहूय (√आ-ह्वा + ल्यप्)
सौमित्रेसौमित्रि (८.१)
रत्नैःरत्न (३.३)
सस्यम्सस्य (२.१)
इवाम्बुभिःइव (अव्ययः)–अम्बु (३.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

स्त्यं कौशि कं चै
तावु भौ ब्राह्म णोत्त मौ
र्च या हू सौ मि त्रे
त्नैःस्यमि वाम्बु भिः