२.३.१३

घर्माभितप्ताः पर्जन्यं ह्लादयन्तमिव प्रजाः ।
न ततर्प समायान्तं पश्यमानो नराधिपः ॥

पदच्छेदः

घर्माभितप्ताःघर्म–अभितप्त (√अभि-तप् + क्त, २.३)
पर्जन्यंपर्जन्य (२.१)
ह्लादयन्तम्ह्लादयत् (√ह्लादय् + शतृ, २.१)
इवइव (अव्ययः)
प्रजाःप्रजा (२.३)
(अव्ययः)
ततर्पततर्प (√तृप् लिट् प्र.पु. एक.)
समायान्तंसमायान्त् (√समा-या + शतृ, २.१)
पश्यमानोपश्यमान (√पश् + शानच्, १.१)
नराधिपःनराधिप (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

र्माभि प्ताः र्ज न्यं
ह्लान्तमिप्र जाः
र्प मा या न्तं
श्य मा नो राधि पः