२.३.२९

तच्छ्रुत्वा सुहृदस्तस्य रामस्य प्रियकारिणः ।
त्वरिताः शीघ्रमभ्येत्य कौसल्यायै न्यवेदयन् ॥

अन्वयः

 तस्य रामस्य that Rama's, सुहृदः friends, तत् श्रुत्वा hearing that, त्वरिताः in great haste, प्रियकारिणः with the intention of causing pleasure, शीघ्रम् speedily, अभ्येत्य having approached, कौशल्यायै to Kausalya, न्यवेदयन् informed.

Summary

Having heard this, Rama's friends quickly reported the matter to Kausalya so that she might be happy.

पदच्छेदः

तच्तद् (२.१)
छ्रुत्वाश्रुत्वा (√श्रु + क्त्वा)
सुहृदस्सुहृद् (१.३)
तस्यतद् (६.१)
रामस्यराम (६.१)
प्रियकारिणःप्रिय–कारिन् (१.३)
त्वरिताःत्वरित (१.३)
शीघ्रम्शीघ्रम् (अव्ययः)
अभ्येत्यअभ्येत्य (√अभ्या-इ + ल्यप्)
कौसल्यायैकौसल्या (४.१)
न्यवेदयन्न्यवेदयन् (√नि-वेदय् लङ् प्र.पु. बहु.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

च्छ्रु त्वासुहृ स्तस्य
रा स्यप्रि कारि णः
त्वरि ताः शीघ्र भ्येत्य
कौ ल्या यैन्य वे यन्