२.३.३०

सा हिरण्यं च गाश्चैव रत्नानि विविधानि च ।
व्यादिदेश प्रियाख्येभ्यः कौसल्या प्रमदोत्तमा ॥

अन्वयः

 प्रमदोत्तमा the foremost of women, सा कौशल्या that Kausalya, हिरण्यं च gold, गाः चैव and also cows, विविधानि various kinds of, रत्नानि च gems as well, प्रियाख्येभ्यः (सह) messengers of these good tidings, व्यादिदेश ordered.

Summary

The foremost of women, Kausalya ordered gifts of gold, cows and various kinds of gems to be given to the messengers who brought this good tiding.

पदच्छेदः

सातद् (१.१)
हिरण्यंहिरण्य (२.१)
(अव्ययः)
गाश्गो (२.३)
चैव (अव्ययः)–एव (अव्ययः)
रत्नानिरत्न (२.३)
विविधानिविविध (२.३)
(अव्ययः)
व्यादिदेशव्यादिदेश (√व्या-दिश् लिट् प्र.पु. एक.)
प्रियाख्येभ्यःप्रिय–आख्या (४.३)
कौसल्याकौसल्या (१.१)
प्रमदोत्तमाप्रमदा–उत्तम (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

साहि ण्यं गा श्चै
त्नानिविवि धानि
व्यादि देप्रि या ख्ये भ्यः
कौ ल्याप्र दोत्त मा