२.३.३२

ते चापि पौरा नृपतेर्वचस्त;च्छ्रुत्वा तदा लाभमिवेष्टमाप्य ।
नरेन्द्रमामन्त्य गृहाणि गत्वा; देवान्समानर्चुरतीव हृष्टाः ॥

अन्वयः

ते पौराश्चापि those citizens also, तथा such, इष्टम् dear, लाभमिव beneficial, नृपतेः king's, तत् वचः that pronouncement, शृत्वा having heard, नरेन्द्रम् king Dasaratha, आमन्त्र्य having taken leave of, आशु immediately, गृहाणि to their homes, गत्वा having gone, अति प्रहृष्टाः full of joy, देवान् gods, समानर्चुः worshipped.

Summary

On hearing such pronouncement by the king, the citizens also felt they have got something beneficial for themselves. They took leave of the king (Dasaratha) and hastening home, full of joy, began worshipping their gods.इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अयोध्याकाण्डे तृतीयस्सर्गः॥Thus ends the third sarga of Ayodhyakanda of the holy Ramayana, the first epic composed by sage Valmiki.

पदच्छेदः

तेतद् (१.३)
चापि (अव्ययः)–अपि (अव्ययः)
पौरापौर (१.३)
नृपतेर्नृपति (६.१)
वचस्वचस् (२.१)
तच्छ्रुत्वातद् (२.१)–श्रुत्वा (√श्रु + क्त्वा)
तदातदा (अव्ययः)
लाभम्लाभ (२.१)
इवेष्टम्इव (अव्ययः)–इष्ट (√इष् + क्त, २.१)
आप्यआप्य (√आप् + क्त्वा)
नरेन्द्रम्नरेन्द्र (२.१)
आमन्त्र्यआमन्त्र्य (√आ-मन्त्रय् + ल्यप्)
गृहाणिगृह (२.३)
गत्वागत्वा (√गम् + क्त्वा)
देवान्देव (२.३)
समानर्चुर्समानर्चुः (√सम्-अर्च् लिट् प्र.पु. बहु.)
अतीवअतीव (अव्ययः)
हृष्टाःहृष्ट (√हृष् + क्त, १.३)

छन्दः

उपजातिः [११]

छन्दोविश्लेषणम्

१०११
ते चापि पौ रानृ तेर्वस्त
च्छ्रु त्वा दा लामि वेष्ट माप्य
रेन्द्र मान्त्यगृ हाणि त्वा
दे वान्स मार्चु ती हृ ष्टाः