२.३१.३७

फलानि मूलानि च भक्षयन्वने; गिरींश्च पश्यन्सरितः सरांसि च ।
वनं प्रविश्यैव विचित्रपादपं; सुखी भविष्यामि तवास्तु निर्वृतिः ॥

अन्वयः

विचित्रपादपम् with various kinds of trees, वनम् the forest, प्रविश्यैव having entered, फलानि fruits, मूलानि च roots also, भक्षयन् eating, वने in the forest, गिरींश्च mountains as well, सरितः rivers, सरांसि च lakes, पश्यन् seeing, सुखी भविष्यामि shall be happy, तव you, निर्वृतिः अस्तु shall cease (to lament).

Summary

Entering the forest full of various kinds of trees I shall be happy to view the mountains, rivers and the lakes and to eat fruits and roots. (Hence) do not grieve.

पदच्छेदः

फलानिफल (२.३)
मूलानिमूल (२.३)
(अव्ययः)
भक्षयन्भक्षयत् (√भक्षय् + शतृ, १.१)
वनेवन (७.१)
गिरींश्गिरि (२.३)
(अव्ययः)
पश्यन्पश्यत् (√दृश् + शतृ, १.१)
सरितःसरित् (२.३)
सरांसिसरस् (२.३)
(अव्ययः)
वनंवन (२.१)
प्रविश्यैवप्रविश्य (√प्र-विश् + ल्यप्)–एव (अव्ययः)
विचित्रपादपंविचित्र–पादप (२.१)
सुखीसुखिन् (१.१)
भविष्यामिभविष्यामि (√भू लृट् उ.पु. )
तवास्तुत्वद् (६.१)–अस्तु (√अस् लोट् प्र.पु. एक.)
निर्वृतिःनिर्वृति (१.१)

छन्दः

वंशस्थम् [१२: जतजर]

छन्दोविश्लेषणम्

१०१११२
लानि मू लानिक्षन्व ने
गि रींश्च श्यन्सरि तः रांसि
नंप्र वि श्यैवि चित्र पा पं
सु खी वि ष्यामि वास्तु निर्वृ तिः