२.३१.३६

तदद्य नैवानघ राज्यमव्ययं; न सर्वकामान्न सुखं न मैथिलीम् ।
न जीवितं त्वामनृतेन योजय;न्वृणीय सत्यं व्रतमस्तु ते तथा ॥

अन्वयः

अनघ O sinless one, तत् for that, अद्य now, त्वाम् you, अनृतेन with untruth, योजयन् associating, अव्ययम् eternal, राज्यम् kingdom, नैव वृणीय will not seek, सर्वकामान् all desires, न not, सुखम् happiness, न not, मैथिलीम् Sita, न not, जीवितम् life, न not, ते to you, व्रतम् vow, तथा in that way, सत्यम् अस्तु let it become true.

Summary

O sinless one by associating you with falsehood I will neither seek this eternal kingdom nor objects of desires nor objects of happiness nor Maithili nor even my life. I only wish that your vow comes true.

पदच्छेदः

तद्तद् (२.१)
अद्यअद्य (अव्ययः)
नैवानघ (अव्ययः)–एव (अव्ययः)–अनघ (८.१)
राज्यम्राज्य (२.१)
अव्ययंअव्यय (२.१)
(अव्ययः)
सर्वकामान्सर्व–काम (२.३)
(अव्ययः)
सुखंसुख (२.१)
(अव्ययः)
मैथिलीम्मैथिली (२.१)
(अव्ययः)
जीवितंजीवित (२.१)
त्वाम्त्वद् (२.१)
अनृतेनअनृत (३.१)
योजयन्योजयत् (√योजय् + शतृ, १.१)
वृणीयवृणीय (√वृ विधिलिङ् उ.पु. )
सत्यंसत्य (१.१)
व्रतम्व्रत (१.१)
अस्तुअस्तु (√अस् लोट् प्र.पु. एक.)
तेत्वद् (६.१)
तथातथा (अव्ययः)

छन्दः

वंशस्थम् [१२: जतजर]

छन्दोविश्लेषणम्

१०१११२
द्य नै वा राज्यव्य यं
र्व का मान्नसु खं मैथि लीम्
जीवि तं त्वानृ ते यो
न्वृ णी त्यंव्रस्तु ते था