२.३४.३

स मुहूर्तमिवासंज्ञो दुःखितश्च महीपतिः ।
विललाप महाबाहू राममेवानुचिन्तयन् ॥

अन्वयः

महाबाहुः mightyarmed, सः महीपतिः that Lord of the world (king), मुहूर्तम् for a moment, असंज्ञः इव almost unconscious, दुःखितश्च grieved, रामम् एव Rama alone, अनुचिन्तयन् while brooding, विललाप lamented.

Summary

The mightyarmed king lost consciousness for a moment and in grief lamented, brooding only over Rama.

पदच्छेदः

तद् (१.१)
मुहूर्तम्मुहूर्त (२.१)
इवासंज्ञोइव (अव्ययः)–असंज्ञ (१.१)
दुःखितश्दुःखित (१.१)
(अव्ययः)
महीपतिःमहीपति (१.१)
विललापविललाप (√वि-लप् लिट् प्र.पु. एक.)
महाबाहूमहत्–बाहु (१.१)
रामम्राम (२.१)
एवानुचिन्तयन्एव (अव्ययः)–अनुचिन्तयत् (√अनु-चिन्तय् + शतृ, १.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

मु हूर्तमि वा सं ज्ञो
दुःखिश्च ही तिः
वि ला हा बा हू
रा मे वानु चिन्त यन्