२.३५.१०

रथमारोह भद्रं ते राजपुत्र महायशः ।
क्षिप्रं त्वां प्रापयिष्यामि यत्र मां राम वक्ष्यसि ॥

अन्वयः

राजपुत्र O Prince, महायशः O illustrious one, रथं chariot, आरोह mount, ते to you, भद्रम् wish you well, यत्र whereever, वक्ष्यसि you guide (one), त्वाम् you, क्षिप्रम् speedily, प्रापयिष्यामि I will take.

Summary

O Illustrious prince, wish you well Mount the chariot. I shall convey you speedily whereever you want.

पदच्छेदः

रथम्रथ (२.१)
आरोहआरोह (√आ-रुह् लोट् म.पु. )
भद्रंभद्र (१.१)
तेत्वद् (४.१)
राजपुत्रराजन्–पुत्र (८.१)
महायशःमहत्–यशस् (८.१)
क्षिप्रंक्षिप्रम् (अव्ययः)
त्वांत्वद् (२.१)
प्रापयिष्यामिप्रापयिष्यामि (√प्र-आपय् लृट् उ.पु. )
यत्रयत्र (अव्ययः)
मांमद् (२.१)
रामराम (८.१)
वक्ष्यसिवक्ष्यसि (√वच् लृट् म.पु. )

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

मा रो द्रं ते
रा पुत्र हा शः
क्षि प्रं त्वां प्रा यि ष्यामि
त्र मां राक्ष्यसि