२.३५.३७

यमिच्छेत्पुनरायान्तं नैनं दूरमनुव्रजेत् ।
इत्यमात्या महाराजमूचुर्दशरथं वचः ॥

अन्वयः

यम् whom, पुनः again, आयान्तम् returning, इच्छेत् desires, एनम् him, दूरम् for a long distance, न अनुव्रजेत् should not follow, इति thus, अमात्याः ministers, महाराजम् king, दशरथम् to Dasaratha, वचः words, ऊचुः said.

Summary

We should not follow over a long distance those we wish to return, said the ministers to king Dasaratha.

पदच्छेदः

यम्यद् (२.१)
इच्छेत्इच्छेत् (√इष् विधिलिङ् प्र.पु. एक.)
पुनर्पुनर् (अव्ययः)
आयान्तंआयान्त् (√आ-या + शतृ, २.१)
नैनं (अव्ययः)–एनद् (२.१)
दूरम्दूरम् (अव्ययः)
अनुव्रजेत्अनुव्रजेत् (√अनु-व्रज् विधिलिङ् प्र.पु. एक.)
इत्य्इति (अव्ययः)
अमात्याअमात्य (१.३)
महाराजम्महत्–राज (२.१)
ऊचुर्ऊचुः (√वच् लिट् प्र.पु. बहु.)
दशरथंदशरथ (२.१)
वचःवचस् (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

मि च्छेत्पु रा या न्तं
नै नं दू नुव्र जेत्
त्य मा त्या हा रा
मू चुर्द थं चः