२.३६.१

तस्मिंस्तु पुरुषव्याघ्रे निष्क्रामति कृताञ्जलौ ।
आर्तशब्दो हि संजज्ञे स्त्रीणामन्तःपुरे महान् ॥

अन्वयः

पुरुषव्याघ्रे tiger (foremost) among men, तस्मिन् that Rama, कृताञ्जलौ with folded palms, विनिर्याति having departed, अन्तःपुरे in the inner apartment (of the palace), स्त्रीणाम् of women, आर्तशब्दः cries of distress, संजज्ञे arose.

Summary

When the tiger among men (Rama) was coming out with folded palms, there arose a huge cry of distress among the ladies of the harem:

पदच्छेदः

तस्मिंस्तद् (७.१)
तुतु (अव्ययः)
पुरुषव्याघ्रेपुरुष–व्याघ्र (७.१)
निष्क्रामतिनिष्क्रामत् (√निः-क्रम् + शतृ, ७.१)
कृताञ्जलौकृत (√कृ + क्त)–अञ्जलि (७.१)
आर्तशब्दोआर्त–शब्द (१.१)
हिहि (अव्ययः)
संजज्ञेसंजज्ञे (√सम्-जन् लिट् प्र.पु. एक.)
स्त्रीणाम्स्त्री (६.३)
अन्तःपुरेअन्तःपुर (७.१)
महान्महत् (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

स्मिंस्तुपुरु व्या घ्रे
नि ष्क्रातिकृ ताञ्ज लौ
र्त ब्दोहि सं ज्ञे
स्त्री णा न्तःपु रे हान्