२.४६.२२

चतुर्दशसु वर्षेषु निवृत्तेषु पुनः पुनः ।
लक्ष्मणं मां च सीतां च द्रक्ष्यसि क्षिप्रमागतान् ॥

अन्वयः

चतुर्दशसु fourteen, वर्षेषु years, निवृत्तेषु on completion, क्षिप्रम् quickly, आगतान् coming, लक्ष्मणम् Lakshmana, मां च I also, सीतां च and Sita, पुनः पुनः again and again, द्रक्ष्यसे will keep seeing.

M N Dutt

After these fourteen years have gone by, you will see Lakşmaņa, Sītā and myself come to you speedily.

Summary

Very quickly these fourteen years will come to an end and we will return (to Ayodhya). Then you will see me, Lakshmana and Sita off and on.

पदच्छेदः

चतुर्दशसुचतुर्दशन् (७.३)
वर्षेषुवर्ष (७.३)
निवृत्तेषुनिवृत्त (√नि-वृत् + क्त, ७.३)
पुनःपुनर् (अव्ययः)
पुनःपुनर् (अव्ययः)
लक्ष्मणंलक्ष्मण (२.१)
मांमद् (२.१)
(अव्ययः)
सीतांसीता (२.१)
(अव्ययः)
द्रक्ष्यसिद्रक्ष्यसि (√दृश् लृट् म.पु. )
क्षिप्रम्क्षिप्रम् (अव्ययः)
आगतान्आगत (√आ-गम् + क्त, २.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

तुर्दसु र्षेषु
नि वृ त्तेषुपु नःपु नः
क्ष्म णं मां सी तां
द्रक्ष्य सि क्षिप्र मा तान्