२.४७.१९

नूनं जात्यन्तरे कस्मिं स्त्रियः पुत्रैर्वियोजिताः ।
जनन्या मम सौमित्रे तदप्येतदुपस्थितम् ॥

अन्वयः

सौमित्रे Lakshmana, मम जनन्या by my mother, कस्मिन् जात्यन्तरे in some previous birth, स्त्रियः women, पुत्रैः with sons, वियोजिताः separated, तस्मात् for that reason, एतत् all this, उपस्थितम् befallen, नूनम् certainly.

M N Dutt

Surely, O child, in a former birth, women were bereft of their sons by my mother, O son of Sumitrā; and it is for this that this misfortune has befallen her.

Summary

O Lakshmana, surely in one of her previous births did my mother separate women from their sons. That is why this (calamity) has befallen her.

पदच्छेदः

नूनंनूनम् (अव्ययः)
जात्यन्तरेजाति–अन्तर (७.१)
कस्मिन् (७.१)
स्त्रियःस्त्री (१.३)
पुत्रैर्पुत्र (३.३)
वियोजिताःवियोजित (√वि-योजय् + क्त, १.३)
जनन्याजननी (३.१)
मममद् (६.१)
सौमित्रेसौमित्रि (८.१)
तद्तद् (१.१)
अप्य्अपि (अव्ययः)
एतद्एतद् (१.१)
उपस्थितम्उपस्थित (√उप-स्था + क्त, १.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

नू नं जा त्यन्त रे स्मिं
स्त्रि यः पु त्रैर्वि योजि ताः
न्या सौ मि त्रे
प्येदुस्थि तम्