२.५.४

स रामभवनं प्राप्य पाण्डुराभ्रघनप्रभम् ।
तिस्रः कक्ष्या रथेनैव विवेश मुनिसत्तमः ॥

अन्वयः

सः मुनिसत्तमः that foremost of ascetics, पाण्डुराभ्रघनप्रभम् shining like a mass of white clouds beaming with brightness, रामभवनम् abode of Rama, प्राप्य having reached, तिस्रः three, कक्ष्याः yards, रथेनैव mounted on the chariot itself, विवेश entered.

Summary

Having crossed the three courtyards in the chariot, that foremost of ascetics (Vasistha) entered Rams's abode, shining like a mass of white clouds.

पदच्छेदः

तद् (१.१)
रामभवनंराम–भवन (२.१)
प्राप्यप्राप्य (√प्र-आप् + ल्यप्)
पाण्डुराभ्रघनप्रभम्पाण्डुर–अभ्र–घन–प्रभा (२.१)
तिस्रःत्रि (२.३)
कक्ष्याकक्ष्या (२.३)
रथेनैवरथ (३.१)–एव (अव्ययः)
विवेशविवेश (√विश् लिट् प्र.पु. एक.)
मुनिसत्तमःमुनि–सत्तम (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

रा नं प्राप्य
पाण्डु राभ्रप्र भम्
ति स्रः क्ष्या थे नै
वि वेमुनित्त मः