२.६.१०

ततः पौरजनः सर्वः श्रुत्वा रामाभिषेचनम् ।
प्रभातां रजनीं दृष्ट्वा चक्रे शोभां परां पुनः ॥

अन्वयः

ततः afterwards, सर्वः all, पौरजनः citizens, रामाभिषेचनम् consecration of Rama, श्रुत्वा having heard, रजनीम् the night, प्रभाताम् brightened into dawn, दृष्ट्वा having seen, पुरीम् the city, शोभयितुम् to decorate, चक्रे made (commenced).

Summary

Having heard about the coronation of Rama, all the citizens began to decorate the city soon after daybreak.

पदच्छेदः

ततःततस् (अव्ययः)
पौरजनःपौर–जन (१.१)
सर्वःसर्व (१.१)
श्रुत्वाश्रुत्वा (√श्रु + क्त्वा)
रामाभिषेचनम्राम–अभिषेचन (२.१)
प्रभातांप्रभात (√प्र-भा + क्त, २.१)
रजनींरजनी (२.१)
दृष्ट्वादृष्ट्वा (√दृश् + क्त्वा)
चक्रेचक्रे (√कृ लिट् प्र.पु. एक.)
शोभांशोभा (२.१)
परांपर (२.१)
पुनःपुनर् (अव्ययः)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

तः पौ नः र्वः
श्रु त्वा रा माभि षे नम्
प्र भा तां नीं दृ ष्ट्वा
क्रे शो भां रांपु नः