२.६.९

कृतोपवासं तु तदा वैदेह्या सह राघवम् ।
अयोध्या निलयः श्रुत्वा सर्वः प्रमुदितो जनः ॥

अन्वयः

तदा then, राघवम् to the scion of the Raghus (Rama), वैदेह्या सह along with the princess of Videha, (Sita), कृतोपवासम् had undertaken the fast, श्रुत्वा having heard, अयोध्यानिलयः residents of Ayodhya, सर्वः all, जनः men, प्रमुदितः rejoiced.

Summary

The residents of Ayodhya were happy to hear that the scion of the Raghus (Rama) along with princess of Videha (Sita) had undertaken the fast.

पदच्छेदः

कृतोपवासंकृत (√कृ + क्त)–उपवास (२.१)
तुतु (अव्ययः)
तदातदा (अव्ययः)
वैदेह्यावैदेही (३.१)
सहसह (अव्ययः)
राघवम्राघव (२.१)
अयोध्यानिलयःअयोध्या–निलय (१.१)
श्रुत्वाश्रुत्वा (√श्रु + क्त्वा)
सर्वःसर्व (१.१)
प्रमुदितोप्रमुदित (√प्र-मुद् + क्त, १.१)
जनःजन (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

कृ तो वा संतु दा
वै दे ह्या रा वम्
यो ध्यानि यः श्रु त्वा
र्वःप्रमुदि तो नः