२.६.१४

नटनर्तकसंघानां गायकानां च गायताम् ।
मनःकर्णसुखा वाचः शुश्रुवुश्च ततस्ततः ॥

अन्वयः

ततस्ततः here and there, नटनर्तकसङ्घानाम् of troupes of actors and dancers, गायताम् of singers, गायकानां च also of songsters, मनः कर्णसुखाः pleasing to the mind and ears, वाचः words, शुश्रुवुः heard.

Summary

Troupes of actors and dancers entertained the people with songs pleasing to the mind and ears and their utterances were heard here and there.

पदच्छेदः

नटनर्तकसंघानांनट–नर्तक–संघ (६.३)
गायकानांगायक (६.३)
(अव्ययः)
गायताम्गायत् (√गा + शतृ, ६.३)
मनःकर्णसुखामनस्–कर्ण–सुख (१.१)
वाचःवाच् (२.३)
शुश्रुवुश्शुश्रुवुः (√श्रु लिट् प्र.पु. बहु.)
(अव्ययः)
ततस्ततस् (अव्ययः)
ततःततस् (अव्ययः)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

र्त सं घा नां
गा का नां गा ताम्
नःर्णसु खा वा चः
शुश्रु वुश्चस्त तः